|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.27. अध्यायः 027
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
सञ्जयेन तापसान्प्रति युधिष्ठिरादीनां द्रौपद्यादिस्त्रीणां चाङ्गुलिनिर्देशेन नामनिर्देशः॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे॥ 16-27-1(97866)
तापसैश्च महाभागैर्नानादेशसमागतैः।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः॥ 16-27-2(97867)
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी॥ 16-27-3(97868)
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः॥ 16-27-4(97869)
सञ्जय उवाच। 16-27-5x(8053)
य एष जांबूनदशुद्धगौर-
स्तनुर्महासिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः॥ 16-27-5(97870)
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसः पृथुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतेमम्॥ 16-27-6(97871)
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपाभः।
सिंहोन्नतांसो गजखेलगामी
पद्मायताक्षोऽर्जुन एष वीरः॥ 16-27-7(97872)
कुन्तीसमीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोस्ति
ययोर्न रूपे न बले न शीले॥ 16-27-8(97873)
इयं पुनः पद्मदलायताक्षी
मध्यं वयः किञ्चिदिव स्पशन्ती।
नीलोत्पलाभा पुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥ 16-27-9(97874)
अस्यास्तु पार्श्वे कनकोपमत्व-
गेषा स्थिता मूर्तिमतीव गौरी।
सत्ये स्थिता सा भगिनी द्विजाग्र्या-
श्चक्रायुधस्याप्रतिमस्य तस्य॥ 16-27-10(97875)
इयं च जांबूनदशुद्धगौरी
पार्थस्य भार्या भुजगेन्द्रकन्या।
चित्राङ्गदा चैव नरेन्द्रकन्या
यैषा सवर्णार्द्रमधूकपुष्पैः॥ 16-27-11(97876)
इयं स्वसा राजचमूपतेश्च
प्रवृद्धनीलोत्पलदामवर्णा।
पस्पर्ध कृष्णेन सदा नृपो यो
वृकोदरस्यैष परिग्रहोऽग्र्यः॥ 16-27-12(97877)
इयं च राज्ञो मगधाधिपस्य
सुता जरासंध इति श्रुतस्य।
यवीयसो माद्रवतीसुतस्य
भार्या मता चम्पकदामगौरी॥ 16-27-13(97878)
इन्दीवरश्यामतनुः स्थिता तु
यैषा पराऽऽसन्नतरोर्लतेव।
भार्या मता माद्रवतीसुतस्य
ज्येष्ठस्य सेयं कमलायताक्षी॥ 16-27-14(97879)
इयं तु निष्टप्तसुवर्णगौरी
राज्ञो विराटस्य सुता सपुत्रा।
भार्याऽभिमन्योर्निहतो रणे यो
द्रोणादिभिस्तैर्विरथो रथस्थैः॥ 16-27-15(97880)
एतास्तु सीमन्तशिरोरुहा याः
शुक्लोत्तरीया नरराजपत्न्यः।
राज्ञोस्य वृद्धस्य परंशताख्याः
स्नुषा नृवीराहतपुत्रनाथाः॥ 16-27-16(97881)
एकता यथामुख्यमुदाहृता वो
ब्राह्मण्यभावादृजुबुद्धिसत्वात्।
सर्वा भवद्भिः परिपृच्छ्यमाना
नरेन्द्रपत्न्यः सुविशुद्धसत्वाः।
`सर्वे भवन्तोपि तपोबलाग्र्याः
क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च॥' 16-27-17(97882)
वैशम्पायन उवाच। 16-27-18x(8054)
एवं स राजा कुरुवृद्धवर्यः
समागतस्तैर्नरदेवपुत्रैः।
पप्रच्छ सर्वं कुशलं तदानीं
गतेषु सर्वेष्वथ तापसेषु॥ 16-27-18(97883)
योधेषु चाप्याश्रममण्डलं त-
न्मत्वा निविष्टेषु विमुच्य पत्रम्।
स्त्रीवृद्धबाले च सुसंनिविष्टे
यथार्हतस्तान्कुशलान्यपृच्छत्॥ ॥ 16-27-19(97884)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-27-12 परिग्रहो भार्या॥ 7-27-14 यासौ विशुद्धांबुजपद्मनेत्रा इति क.थ.पाठः॥ 7-27-16 भीमन्तमात्रेण उपलक्षिता। नत्वलङ्कारादिना तादृशाः शिरोरुहाः केशा यासां ताः सीमन्तशिरोरुहाः। असीमन्तेति पाठो युक्तः। शुक्लोत्तरीया नरराजकन्या इति क.थ.पाठः॥ 7-27-19 पत्रं वाहनम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|